॥ रविषष्ठि (छठ) पूजनम् ॥
आचमन
ॐ केशवाय नमः ॐ नारायणाय नमः ॐ माधवाय नमः
हस्त प्रक्षालन
ॐ हृषीकेशाय नमः ॐ गोविंदाय नमः
पवित्रीकरण
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥ ॐ पुण्डरीकाक्षः पुनातु। ॐ पुण्डरीकाक्षः पुनातु। ॐ पुण्डरीकाक्षः पुनातु।`
आसन शुद्धि
ॐ पृथिवी त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
तिलक
चंदनस्य महत्पुण्यं पवित्रं पापनाशनं। आपदां हरते नित्यं लक्ष्मी तिष्ठति सर्वदा।।
रक्षासूत्र
येन बद्धो बली राजा दानवेन्द्रो महाबलः। तेन त्वाम् अभिबध्नामि रक्षे मा चल मा चल॥
अखंड दीपक
भो दीप देव-रूपस्त्वं कर्मसाक्षि ह्यविघ्नकृत । यावत् कर्म-समाप्तिः स्यात् तावत् त्वं सुस्थिरो भवः॥
स्वस्तिवाचन और पौराणिकश्लोक
भगवान् सूर्यनारायण ध्यान
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥
ऊँ आदित्याय विदमहे प्रभाकराय धीमहि तन्नो सूर्य प्रचोदयात् ।
ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, ध्यानार्थे पुष्पाणि समर्पयामि ।
आवाहन
ॐ आगच्छ भगवन् देव स्थाने चात्र स्थिरो भवः । यावत् पुजां करिष्यामि तावत् त्वं संनिधौ भवः ।। ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, आवाहनार्थे पुष्पं समर्पयामि ।
आसन
अनेक रत्नसंयुक्तं नानामणिगणान्वितम् । भावितं स्वर्णिमं दिव्य मासनं प्रतिगृहताम् ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, आसनार्थें पुष्पंणि समर्पयामि ।
प्रतिष्ठा
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः! सुप्रतिष्ठिते वरदे भवेताम् ।
पाद्य
ॐ सर्वतीर्थसमुदभूतं पाद्यं गन्धादिभिर्युतम्। विघ्नराज ! गृहाणेमं भगवन् ! भक्तवत्सलः।। ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, पादयोः पाद्यं समर्पयामि ।
अर्घ्य
ॐ गंधपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया । गृहाणार्घ्यं मया दत्तं प्रसन्नों वरदो भवः ।। ॐ भूर्भुवः स्वः श्रीसत्यनारायणाय नमः, हस्तयोर्घ्यं समर्पयामि ।
आचमन
ॐ गंगाजल समानीतं सुवर्णकलशे स्थितं। आचम्यतां हृषीकेश त्रैलोक्यव्याधिनाशन ।। ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, मुखे आचमनीयं समर्पयामि ।
स्नान
गंगे च यमुने चैव गोदावरि सरस्वति, नर्मदे सिंधु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, स्नानं समर्पयामि ।
दुग्धस्नान
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पयःस्नानार्थमर्पितम् ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, पयः स्नानं समर्पयामि ।
दधिस्नान
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, दधिस्नानं समर्पयामि ।
घृतस्नान
नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ॥ घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, घृतस्नानं समर्पयामि ।
मधुस्नान
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु । तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, मधुस्नानं समर्पयामि ।
शर्करास्नान
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, शर्करास्नानं समर्पयामि ।
पञ्चामृतस्नान
पञ्चामृतं मयानीतं पयो दधि घृतं मधु । शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, पञ्चामृतस्नानं समर्पयामि ।
गन्धोदकस्नान
मलयाचलसम्भूतचन्दनेन विनिःसृतम् ।इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, गन्धोदकस्नानं समर्पयामि ।
शुद्धोदकस्नान
ॐ मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्। तदिदं कल्पितं देव ! स्नानार्थं प्रतिगृह्यताम्।। ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, शुद्धोदकस्नानं समर्पयामि । शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
वस्त्र
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् । देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, वस्त्रं च उपवस्त्रं समर्पयामि । वस्त्रान्ते आचमनीयं जलं समर्पयामि ।
यज्ञोपवीत
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं मया दत्तं गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, यज्ञोपवीतं समर्पयामि । यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।
चन्दन
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।विलेपनं सुरश्रेष्ठ! चन्दनं चन्दनं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, चन्दनानुलेपनं समर्पयामि।
अक्षत
अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ता: सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, अक्षतान् समर्पयामि ।
पुष्पमाला
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो । मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, पुष्पमालां समर्पयामि ।
तुलसी
ॐ तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम् । भवमोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम् ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, एतानि तुलसीदलानि समर्पयामि ।
दूर्वा
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान् । आनीतांस्तव पूजार्थं गृहाण गणनायक ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, दूर्वाङ्कुरान् समर्पयामि ।
शमीपत्र
ॐ शमी शमय मे पापं शमी लोहितकंटका। धारिण्यर्जुनबाणानां रामस्य प्रियवादिनी।। ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, इदं शमीपत्रं समर्पयामि ।
आभूषण
ॐ वज्रमाणिक्यवैदूर्यमुक्ताविद्रुममण्डितम् । पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम् ।। ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः,आभूषणानि समर्पयामि ।
सुगन्धिद्रव्य
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् । गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, सुगन्धिद्रव्यं समर्पयामि ।
अबीर-गुलाल आदि नाना परिमल द्रव्य
अबीरं च गुलालं च हरिद्रादिसमन्वितम् । नाना परिमलं द्रव्यं गृहाण परमेश्वर ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, नानापरिमलद्रव्याणि समर्पयामि।`
धूप
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः। आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, धूपमाघ्रापयामि ।
दीप
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने । त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते ॥ ॐ भूर्भुवः स्वः श्रीसत्यनारायणाय नमः, दीपं दर्शयामि ।
हस्तप्रक्षालन
ॐ हृषीकेशाय नमः
नैवेद्य
त्वदीयं वस्तु गोविन्द तुभ्मेव समर्पये । गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, नैवेद्यं निवेदयामि । नैवेद्यान्ते आचमनीयं जलं समर्पयामि ।
ऋतुफल
इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, ऋतुफलानि समर्पयामि। फलान्ते आचमनीयं जलं समर्पयामि ।
ताम्बूल
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, मुखवासार्थम् एलालवंग - पूगीफलसहितं ताम्बूलं समर्पयामि ।
दक्षिणा
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, कृताया: पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि।
प्रार्थना
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥
पुष्पाञ्जलि
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च । पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर || ॐ भूर्भुवः स्वः श्रीसूर्यनारायणाय नमः, पुष्पाञ्जलिं समर्पयामि ।
पूजा की आवश्यक सामग्री / Puja Essentials
इन वस्तुओं का प्रयोग ऊपर वर्णित अनुष्ठान में परंपरागत रूप से किया जाता है।
As an Amazon Associate, I earn from qualifying purchases.