॥ श्री सरस्वती पूजा ॥
आचमन
ॐ केशवाय नमः ॐ नारायणाय नमः ॐ माधवाय नमः
हस्त प्रक्षालन
ॐ हृषीकेशाय नमः ॐ गोविंदाय नमः
पवित्रीकरण
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥ ॐ पुण्डरीकाक्षः पुनातु। ॐ पुण्डरीकाक्षः पुनातु। ॐ पुण्डरीकाक्षः पुनातु।
आसन शुद्धि
ॐ पृथिवी त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥
तिलक
चंदनस्य महत्पुण्यं पवित्रं पापनाशनं। आपदां हरते नित्यं लक्ष्मी तिष्ठति सर्वदा।।
दिग्बन्धन रक्षा स्तोत्र
ॐ पूर्वे रक्षतु वाराहः आग्नेयां गरुड़ध्वजः । दक्षिणे पदमनाभस्तु नैऋत्यां मधुसूदनः ॥ पश्चिमे चैव गोविन्दो वायव्यां तु जनार्दनः । उत्तरे श्री पति रक्षेदेशान्यां हि महेश्वरः ॥ ऊर्ध्व रक्षतु धातावो ह्यधोऽनन्तश्च रक्षतु । अनुक्तमपियत्स्थानं रक्षत्वीशो ममाद्रिधृक् ॥ अपसर्पन्तु ये भूताः, ये भूताः भुवि संस्थिताः ये भूताः विघ्नकर्तारस्ते गच्छन्तु शिवाज्ञया ॥ अपक्रमंतु भूतानि पिशाचाः सर्वतोदिशम् । सर्वेषाम् विरोधेन यज्ञकर्म समारम्भे ॥
रक्षासूत्र
येन बद्धो बली राजा दानवेन्द्रो महाबलः। तेन त्वाम् अभिबध्नामि रक्षे मा चल मा चल॥
अखंड दीपक
भो दीप देव-रूपस्त्वं कर्मसाक्षि ह्यविघ्नकृत । यावत् कर्म-समाप्तिः स्यात् तावत् त्वं सुस्थिरो भवः॥
सरस्वती ध्यान मंत्र
ॐ सरस्वती मया दृष्ट्वा, वीणा पुस्तक धारणीम्। हंस वाहिनी समायुक्ता मां विद्या दान करोतु मे।
आवाहन
ॐ आगच्छ भगवति देवि सरस्वति स्थाने चात्र स्थिरा भव। यावत् पूजां करिष्यामि तावत् त्वं सन्निधौ भव॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। आवाहनार्थे पुष्पं समर्पयामि॥
आसन
अनेक रत्नसंयुक्तं नानामणिगणान्वितम् । भावितं स्वर्णिमं दिव्य मासनं प्रतिगृहताम् ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। आसनार्थे पुष्पाणि समर्पयामि ।
प्रतिष्ठा
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। सुप्रतिष्ठिते वरदे भवेताम् ।
पाद्य
ॐ सर्वतीर्थसमुद्भूतं पाद्यं गन्धादिभिर्युतम्। देवि सरस्वति गृहाणेमं भक्तवत्सले॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। पादयोः पाद्यं समर्पयामि॥
अर्घ्य
ॐ गंधपुष्पाक्षतैर्युक्तमर्घ्यं सम्पादितं मया । गृहाणार्घ्यं मया दत्तं प्रसन्ना वरदा भव ।। ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। हस्तयोर्घ्यं समर्पयामि ।
आचमन
ॐ गंगाजल समानीतं सुवर्णकलशे स्थितं। आचम्यतां हृषीकेश त्रैलोक्यव्याधिनाशन ।। ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। मुखे आचमनीयं समर्पयामि ।
स्नान
गंगे च यमुने चैव गोदावरि सरस्वति, नर्मदे सिंधु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। स्नानं समर्पयामि ।
दुग्धस्नान
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पयःस्नानार्थमर्पितम् ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। पयः स्नानं समर्पयामि ।
दधिस्नान
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम् । दध्यानीतं मया देवि स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। दधिस्नानं समर्पयामि ।
घृतस्नान
नवनीतसमुत्पन्नं सर्वसंतोषकारकम् ॥ घृतं तुभ्यं प्रदास्यामि देवि स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। घृतस्नानं समर्पयामि ।
मधुस्नान
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु । तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। मधुस्नानं समर्पयामि ।
शर्करास्नान
इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम् । मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। शर्करास्नानं समर्पयामि ।
पञ्चामृतस्नान
पञ्चामृतं मयानीतं पयो दधि घृतं मधु । शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। पञ्चामृतस्नानं समर्पयामि ।
गन्धोदकस्नान
मलयाचलसम्भूतचन्दनेन विनिःसृतम् । इदं गन्धोदकस्नानं कुङ्कुमाक्तं च गृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। गन्धोदकस्नानं समर्पयामि ।
शुद्धोदकस्नान
ॐ मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्। तदिदं कल्पितं देव ! स्नानार्थं प्रतिगृह्यताम्।। ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। शुद्धोदकस्नानं समर्पयामि । शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।
वस्त्र
शीतवातोष्णसंत्राणं लज्जाया रक्षणं परम् । देहालङ्करणं वस्त्रमतः शान्तिं प्रयच्छ मे ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। वस्त्रं च उपवस्त्रं समर्पयामि । वस्त्रान्ते आचमनीयं जलं समर्पयामि ।
यज्ञोपवीत
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् । उपवीतं मया दत्तं गृहाण परमेश्वरि ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। यज्ञोपवीतं समर्पयामि । यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।
चन्दन
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं देवि श्रेष्ठे चन्दनं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। चन्दनानुलेपनं समर्पयामि।
अक्षत
अक्षताश्च देवि श्रेष्ठे! कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वरि ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। अक्षतान् समर्पयामि ।
पुष्पमाला
माल्यादीनि सुगन्धीनि मालत्यादीनि वै शुभे । मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। पुष्पमालां समर्पयामि ।
आभूषण
ॐ वज्रमाणिक्यवैदूर्यमुक्ताविद्रुममण्डितम् । पुष्परागसमायुक्तं भूषणं प्रतिगृह्यताम् ।। ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः।आभूषणानि समर्पयामि ।
सुगन्धिद्रव्य
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् । गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। सुगन्धिद्रव्यं समर्पयामि ।
अबीर-गुलाल आदि नाना परिमल द्रव्य
अबीरं च गुलालं च हरिद्रादिसमन्वितम् । नाना परिमलं द्रव्यं गृहाण परमेश्वरि ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। नानापरिमलद्रव्याणि समर्पयामि।`
धूप
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः। आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। धूपमाघ्रापयामि ।
दीप
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण देवि शुभे त्रैलोक्यतिमिरापहम् ॥ भक्त्या दीपं प्रयच्छामि देव्या परमात्मिकायै । त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तु ते ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। दीपं दर्शयामि ।
हस्तप्रक्षालन
ॐ हृषीकेशाय नमः
नैवेद्य
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च। आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम्।। ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। नैवेद्यं निवेदयामि । नैवेद्यान्ते आचमनीयं जलं समर्पयामि ।
ऋतुफल
इदं फलं मया देव स्थापितं पुरतस्तव । तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। ऋतुफलानि समर्पयामि। फलान्ते आचमनीयं जलं समर्पयामि ।
ताम्बूल
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। मुखवासार्थम् एलालवंग - पूगीफलसहितं ताम्बूलं समर्पयामि ।
दक्षिणा
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। कृताया: पूजायाः साद्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि।
प्रार्थना
या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता। या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना॥ या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता। सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥
पुष्पाञ्जलि
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च । पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वरि || ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। पुष्पाञ्जलिं समर्पयामि ।
प्रदक्षिणा
यानि कानि च पापानि जन्मान्तरकृतानि च । तानि सर्वाणि नश्यन्तु प्रदक्षिणपदे पदे ॥ ॐ भूर्भुवः स्वः श्रीसरस्वत्यै नमः। प्रदक्षिणां समर्पयामि ।
क्षमा प्रार्थना
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया। दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि। यत्पूजितं मया देवि परिपूर्णं तदस्तु मे॥
नमस्कार
नमस्ते शारदे देवि काश्मीरपुरवासिनि। त्वामहं प्रार्थये नित्यं विद्या-दानं च देहि मे॥
या देवी सर्वभूतेषु विद्यारूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥
विसर्जन
यान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम्। इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च॥
गच्छ गच्छ परं स्थानं स्वस्थानं परमेश्वरि। पूजाकाले पुनरागच्छ यावत् तिष्ठ सुखं मम॥
शान्ति पाठ
ॐ सर्वे भवन्तु सुखिनः। सर्वे सन्तु निरामयाः। सर्वे भद्राणि पश्यन्तु। मा कश्चिद् दुःखभाग्भवेत्॥
ॐ शान्तिः शान्तिः शान्तिः॥
पूजा की आवश्यक सामग्री / Puja Essentials
इन वस्तुओं का प्रयोग ऊपर वर्णित अनुष्ठान में परंपरागत रूप से किया जाता है।
As an Amazon Associate, I earn from qualifying purchases.