सर्वतोभद्रमंडलपूजनम्

१. ब्रह्मा (मध्य वापी)

ॐ ब्रह्म यज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेनऽआवः। सबुध्न्या उपमाऽअस्य विष्ठाः सतश्च योनिमसश्च विवः॥

ॐ भूर्भुवः स्वः ब्रह्मण इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः ब्रह्मणे नमः ॥

२. सोम (उत्तर वापी)

ॐ वय ᳪ सोमव्रते तव मनस्तनूषु बिब्भ्रतः। प्रजावन्तः सचेमहि॥

ॐ भूर्भुवः स्वः सोम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः सोमाय नमः॥

३. ईशान (ईशान खण्ड)

ॐ तमीशानञ्जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयं। पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये॥

ॐ भूर्भुवः स्वः ईशान इहागच्छ, इह तिष्ठ । ॐ भूर्भुवः स्वः ईशानाय नमः॥

४. इन्द्र (पूर्व वापी)

ॐ त्रातारमिन्द्रमवितारमिन्द्रᳪ हवे हवे सुहव ᳪ शूरमिन्द्रम्, ह्वायामि शक्रम्पुरुहूतमिन्द्र ᳪ स्वस्ति नो मघवा धात्विन्द्रः॥

ॐ इन्द्र, इहागच्छ, इह तिष्ठ । ॐ भूर्भुवः स्वः इन्द्राय नमः॥

५. अग्नि (अग्निकोण खण्ड )

ॐ त्वन्नोऽअग्ने तव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य। त्राता तोकस्य तनये गवामस्य निमेषᳪरक्षमाणस्तवव्व्रते॥

ॐ भूर्भुवः स्वः अग्ने इहागच्छ, इह तिष्ठ।ॐ भूर्भुवः स्वः अग्नये नमः ॥

६. यम (दक्षिण वापी)

ॐ यमाय त्वांगिरस्वते पितृमते स्वाहा। स्वाहा घर्माय स्वाहा धर्मः पित्रे ॥

ॐ भूर्भुवः स्वः यम इहागच्छ, इह तिष्ठ। ॐ भूर्भुवः स्वः यमाय नमः॥

७. निर्ऋति (नैर्ऋत्यकोण खण्ड)

ॐ असुन्नवन्तमयजमानमिच्छस्तेनस्येत्यामन्विहितस्करस्य। अन्यमस्मदिच्छ सात ऽइत्या नमो देवि निर्ऋते तुभ्यमस्तु॥

ॐ भूर्भुवः स्वः निरृत इहागच्छ, इह तिष्ठ । ॐ भूर्भुवः स्वः निर्ऋतये ॥

८. वरुण (पश्चिम वापी)

ॐ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदाशास्ते यजमानो हविर्भिः। अहेडमानो वरुणेह बोध्युरुशᳪस मा नऽआयुः प्रमोषीः॥

ॐ भूर्भुवः स्वः वरुण इहागच्छ, इह तिष्ठ। ॐ भूर्भुवः स्वः वरुणाय नमः॥

९. वायु (वायुकोण खण्ड)

ॐ आ नो नियुद्भिः शतिनीभिरध्वर ᳪ सहश्रिणीभिरुपयाहि यज्ञम्। वायो ऽअस्मिन्त्सवने मादयस्व यूयम्पात स्वस्तिभिः सदा नः॥

ॐ भूर्भुवः स्वः वायु इहागच्छ, इह तिष्ठ । ॐ भूर्भुवः स्वः वायवे नमः॥

१०. अष्टवसु (वायु-सोम मध्यभद्र)

ॐ वसुभ्यस्त्वा रुद्रेभ्यस्त्वाऽऽदित्येभ्यस्त्वा सञ्जानाथां द्यावापृथिवी मित्रावरुणौ त्वा वृष्ट्यावताम्। व्यन्तु व्योक्त ᳪ रिहाणा मरुतां पृषतीर्गच्छ व्वशा प्रिश्न्निर्ब्भूत्वा दिव ᳪ गच्छ ततो नो वृष्टिमावह। चक्षुष्पा ऽअग्नेऽसि चक्षुर्मे पाहि॥

ॐ भूर्भुवः स्वः अष्टवसवः इहागच्छत इह तिष्ठत। ॐ भूर्भुवः स्वः अष्टवसुभ्यो नमः॥

११. एकादशरुद्र (सोम-ईशान मध्यभद्र)

ॐ नमस्ते रुद्र मन्यव ऽउतो त ऽइषवे नमः॥ बाहुब्भ्यामुत ते नमः॥

ॐ भूर्भुवः स्वः एकादशरुद्राः इहागच्छत इह तिष्ठत॥ ॐ भूर्भुवः स्वः एकादशरुद्रेभ्यो नमः॥

१२. द्वादशादित्य (ईशानेन्द्र मध्यभद्र)

ॐ यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृडयन्तः । आ वोऽर्व्वाची सुमतिर्ववृत्त्याद ᳪ होश्चिद्या व्वरिवोवित्तरासत्॥

ॐ भूर्भुवः स्वः द्वादशादित्याः इहागच्छत इह तिष्ठत॥ ॐ भूर्भुवः स्वः द्वादशादित्येभ्यो नमः॥

१३. अश्विनी (इन्द्राग्नी मध्यभद्र)

ॐ अश्विना तेजसा चक्षुः प्प्राणेन सरस्वती वीर्य्यम् । व्वाचेन्द्रो बलनेन्द्राय दधुरिन्द्रियम्॥

ॐ भूर्भुवः स्वः अश्वनौ इहागच्छतं इह तिष्ठतं । ॐ भूर्भुवः स्वः अश्विभ्यां नमः॥

१४. सपैत्रिक विश्वेदेव (अग्न-यम मध्यभद्र)

ॐ विश्वेदेवास ऽआगत शृणुता म ऽइम ᳪ हवम् । एदं बर्हिर्न्नषीदत । उपयामगृहीतोऽसि व्विश्श्वेब्भ्यस्त्वा देवेभ्य ऽएष ते योनिर्व्विश्वेब्भ्यस्त्वा देवेब्भ्यः॥

ॐ भूर्भुवः स्वः सपैत्रिकविश्वेदेवाः इहागच्छत इह तिष्ठत।। ॐ भूर्भुवः स्वः सपैतृकविश्वेभ्यो देवेभ्यो नमः॥

१५. सप्तयक्ष (यम-निर्ऋति मध्यभद्र)

ॐ अभित्त्यं देव ᳪ सवितारमोण्योः कविक्क्रतुमर्च्चीमि सत्त्यसव ᳪ रत्नधामभि प्रियं मतिं कविम् । ऊर्ध्वा यस्याऽमतिर्भाअदिद्यु तत्सर्वामनि हिरण्यपाणिरमिमीत सुक्क्रतुः कृ॒पा स्वः । प्रजाब्भ्स्त्वा प्प्रजास्त्वाऽनुष्प्राणन्तु प्रजास्त्वमनुष्प्राणिहि ॥

ॐ भूर्भुवः स्वः सप्तयक्षाः इहागच्छत इह तिष्ठत । ॐ भूर्भुवः स्वः सप्तयक्षेभ्यो नमः॥

१६. अष्टकुलनाग (निर्ऋति-वरुण मध्यभद्र)

ॐ नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये ऽअन्तरिक्षे ये दिवि तेब्भ्यः सर्पेभ्यो नमः॥

ॐ भूर्भुवः स्वः अष्टकुलनागाः इहागच्छत इह तिष्ठत। ॐ अष्टकुलनागेभ्यो नमः॥

१७. गन्धर्वाप्सरा (वरुण-वायु मध्यभद्र)

ॐ ऋताषाड् ऋतधामाग्ग्निगन्धर्व्वस्तस्यौषधयोऽप्सरसो मुदो नाम । स न इदं ब्रह्म क्षत्रं पातु तस्मै । स्वाहा व्वाट् ताब्भ्यः स्वाहा॥

ॐ भूर्भुवः स्वः गन्धर्वाप्सराः इहागच्छत इह तिष्ठत। ॐ भूर्भुवः स्वः गन्धर्वाऽप्सरोभ्यो नमः ॥

१८. स्कन्द (ब्रह्म-सोम मध्य वापी)

ॐ यदक्क्रन्दः प्प्रथमं जायमान ऽउद्यन्त्समुद्रादुत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू ऽउपस्तुत्त्यं महि जातं ते ऽअर्व्वन्॥

ॐ भूर्भुवः स्वः स्कन्द इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः स्कन्दाय नमः॥

१९. वृषभ (तदुत्तर)

ॐ आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । संक्रन्दनोऽनिमिष ऽएकवीरः शत ᳪ सेना अजयत्साकमिन्द्रः॥

ॐ भूर्भुवः स्वः वृषभ इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः वृषभाय नमः॥

२०. शूल (तदुत्तर)

ॐ कार्षिरसि समुद्रस्य त्वाक्षित्याऽउन्नयामि। समापोऽअद्भिरग्मतसमोषधीभिरोषधीः॥

ॐ भूर्भुवः स्वः शूल इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः शूलाय नमः॥

२१. महाकाल (तदुत्तर)

ॐ कार्षिरसि समुद्रस्य त्वाक्षित्याऽउन्नयामि। समापो ऽअद्भिरग्मत-समोषधीभिरोषधीः॥

ॐ भूर्भुवः स्वः महाकाल इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः महाकालाय नमः॥

२२. दक्षादिसप्तगण (ब्रह्म-ईशान मध्यश्रृंखला)

ॐ शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्मांश्च। शुक्रश्च ऽऋतपाश्चात्य हाः ॥

ॐ भूर्भुवः स्वः दक्षादिसप्तगणाः इहागच्छत इह तिष्ठत। ॐ भूर्भुवः स्वः दक्षादिसप्तगणेभ्यो नमः॥

२३. दुर्गा (ब्रह्म-इन्द्र मध्यवापी)

ॐ अम्बेऽअम्बकेऽम्बालिके न मा नयति कश्चन ॥ सस॑स्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥

ॐ भूर्भुवः स्वः दुर्गे इहाऽगच्छ इह तिष्ठ ।। ॐ भूर्भुवः स्वः दुर्गायै नमः॥

२४. विष्णु (तत्पूर्व)

ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं। समूढमस्य पा ᳪ सुरे स्वाहा॥

ॐ भूर्भुवः स्वः विष्णो इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः विष्णवे नमः॥

२५. स्वधा (ब्रह्म-अग्नि मध्यश्रृंखला)

ॐ पितृभ्यः स्वधायिभ्यः स्वधा नमः पितामहेब्भ्यः स्वधायिब्भ्यः स्वधा नमः प्रपितामहेभ्यः स्वधायिब्भ्यः स्व॒धा नमः॥ अक्षन्न्पितरोऽमीमदन्त पितरोऽतीतृपन्त पितरः पितरः शुन्धद्ध्वम्॥

ॐ भूर्भुवः स्वः स्वधे इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः स्वधायै नमः॥

२६. मृत्युरोग (ब्रह्म-यम मध्यश्रृंखला)

ॐ परं मृत्यो ऽअनु परेहि पन्थां यस्ते ऽअन्यऽइतरो देवयानात्। चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजा ᳪ रीरिषो मोत वीरान्॥

ॐ भूर्भुवः स्वः मृत्युरोगाः इहागच्छत इह तिष्ठत। ॐ भूर्भुवः स्वः मृत्युरोगेभ्यो नमः॥

२७. गणपति (ब्रह्म-निरृति मध्यश्रृंखला)

ॐ गणानान्त्वा गणपति ᳪ हवामहे प्रियाणान्त्वा प्रियपति ᳪ हवामहे निधीनान्त्वा निधिपतिᳪ हवामहे व्वसो मम आहमजानि गर्भधमात्त्वमजासि गर्भधम्॥

ॐ भूर्भुवः स्वः गणपते इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः गणपतये नमः ॥

२८. अप (ब्रह्म-वरुण मध्यश्रृंखला)

ॐ आपो हिष्ठा मयोभुवस्तानऽऊर्जे दधातन महेरणाय चक्षसे यो वः शिवतमो रसस्तस्य भाजयतेह नः उशतीरिव मातरः। तस्माऽअरङ्गमामवो यस्य क्षयाय जिन्वथ आपो जनयथा च नः॥

ॐ भूर्भुवः स्वः अद्भ्यः इहागच्छत इह तिष्ठत। ॐ भूर्भुवः स्वः अद्भ्यो नमः ॥

२९. मरुत (ब्रह्म-वायु मध्यश्रृंखला)

ॐ मरुतो यस्य हि क्षये पाथा दिवो विमहसः। स सुगोपातमो जनः॥

ॐ भूर्भुवः स्वः मरुताः इहागच्छत इह तिष्ठत। ॐ भूर्भुवः स्वः मरुद्भ्यो नमः॥

३०. पृथिवी (ब्रह्मपादमूल)

ॐ स्योना पृथिवि नो भवानृक्षरानिवेशनी यच्छा नः शर्मसप्रथाः॥

ॐ भूर्भुवः स्वः पृथिवि इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः पृथिव्यै नमः॥

३१. गङ्गादिनदी (तदुत्तर)

ॐ पञ्चनद्यः सरस्वतीमपियन्ति सस्रोतसः। सरस्वती तु पञ्चधा सो देशे ऽभवत्सरित्॥

ॐ भूर्भुवः स्वः गङ्गादिनद्यः इहागच्छत इह तिष्ठत। ॐ भूर्भुवः स्वः गङ्गादिनदीभ्यो नमः॥

३२. सप्तसागर (तदुत्तर)

ॐ समुद्रोऽसि नभस्वानार्द्द्रदानुः शम्भूर्म्मयोभूरभि मा व्वाहि स्वाहा । अवस्यूसि दुवस्वाञ्छम्भूर्म्मयोभूरभि मा व्वाहि स्वाहा॥

ॐ भूर्भुवः स्वः सप्तसागराः इहागच्छत इह तिष्ठत। ॐ भूर्भुवः स्वः सप्तसागरेभ्यो नमः॥

३३. मेरु (कर्णिकापरिधि)

ॐ प्र पर्व्वतस्य व्वृषभस्य पृष्ट्ठान्नावरश्चरन्ति स्वसि च ऽइयानाः । ता ऽआववृन्नधरागुदक्ता अहिर्बुधन्यमनु रीयमाणाः । विष्ष्णोर्व्विक्क्रमणमसि व्विष्ष्णोर्विक्क्रान्तमसि व्विष्ष्णोः क्क्रान्तमसि॥

ॐ भूर्भुवः स्वः मेरो इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः मेरवे नमः॥

३४. गदा (श्वेतपरिधि उत्तर)

ॐ गणानान्त्वा गणपति ᳪ हवामहे प्रियाणान्त्वा प्रियपति ᳪ हवामहे निधीनान्त्वा निधिपतिᳪ हवामहे व्वसो मम आहमजानि गर्भधमात्त्वमजासि गर्भधम्॥

ॐ भूर्भुवः स्वः गदे इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः गदायै नमः॥

३५. त्रिशूल (ईशानकोण)

ॐ त्रि ᳪशद्धाम विराजति व्वाक्क्पतङ्गाय धीयते । प्रति वस्तोरह द्य भिः॥

ॐ भूर्भुवः स्वः त्रिशूल इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः त्रिशूलाय नमः॥

३६. वज्र (पूर्व)

ॐ महाँ२ इन्द्रो व्वज्रहस्तः षोडशी शर्म्म यच्छतु। हन्न्तु पाप्मानं योऽस्मान्द्वेष्टि । उपयामगृहीतोऽसि महेन्द्रायत्त्वैष ते योनिर्म्महेन्द्राय त्वा॥

ॐ भूर्भुवः स्वः वज्र इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः वज्राय नमः॥

३७. शक्ति (अग्निकोण)

ॐ व्वसु च मे व्वसतिश्च मे कर्म्म च मे ऽर्थश्च म ऽएमश्च म ऽइत्या च मे गतिश्च मे यज्ञेन कल्पन्ताम्॥

ॐ भूर्भुवः स्वः शक्ति इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः शक्तये नमः॥

३८. दण्ड (दक्षिण)

ॐ इड ऽएह्यदित ऽएहि काम्या ऽएत । मयि वः कामधरणं भूयात्॥

ॐ भूर्भुवः स्वः दण्ड इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः दण्डाय नमः॥

३९. खड्ग (नैरृत्यकोण)

ॐ खड्‌गो व्वैश्श्वदेवः श्वा कृष्णः कर्ण्णो गर्दभस्तरक्षुस्ते रक्षसामिन्द्राय सूकरः सि ᳪ हो मारुतः कृकलासः पिप्पका शकुनिस्ते शरव्यायै विश्वेषां देवानां पृषतः॥

ॐ भूर्भुवः स्वः खड्ग इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः खड्गाय नमः॥

४०. पाश (पश्चिम)

ॐ उदुत्तमं व्वरुण पाशमस्स्मदवाधमं व्वि मध्यम ᳪ श्रथाय । अथा व्वयमादित्य व्रते तवानागसो अदितये स्याम॥

ॐ भूर्भुवः स्वः पाश इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः पाशाय नमः॥

४१. अङ्कुश (वायव्यकोण)

ॐ अ ᳪ शुश्श्च मे रश्मिश्श्च मेऽदाब्ध्यश्च मेऽधिपतिश्श्च म ऽउपा ᳪ शुश्श्च मेऽन्तर्य्यामश्श्च मऽएन्द्रवायवश्श्च मे मैत्र्त्रावरुणश्श्च म ऽआश्वनश्श्च मे प्प्रतिप्प्रस्थानश्श्च मे शुक्क्रश्श्चमे मन्थी च मे यज्ञेन कल्पन्ताम्॥

ॐ भूर्भुवः स्वः अङ्कुश इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः अङ्कुशाय नमः॥

४२. गौतम (रक्तपरिधि उत्तर)

ॐ आयङ्गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरञ्च प्रयत्न्स्वः॥

ॐ भूर्भुवः स्वः गौतम इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः गौतमाय नमः॥

४३. भरद्वाज (ईशानकोण)

ॐ अयं दक्षिणा विश्श्वकर्मा तस्य मनो व्वैश्श्वकर्मणं ग्रीष्मो मानसस्त्रिष्टुब्ग्रैष्मी त्रिष्टुभः स्वार ᳪ स्वारादन्तर्य्यामोऽन्तर्य्यामापञ्चदशः पञ्चदशाद् बृहद्भरद्वाज ऽऋषिः प्रजापतिगृहीतया त्वया मनो गृह्णामि प्रजाब्भ्यः॥

ॐ भूर्भुवः स्वः भरद्वाज इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः भरद्वाज नमः॥

४४. विश्वामित्र (पूर्व)

ॐ इदमुत्तरात्स्वस्तस्य श्रोत्र्त्र ᳪ सौव ᳪ शरच्छ्रौत्र्यनुष्टुप् शारद्यनुष्टुभ ऽऐडमैडान्मन्थी मन्थिन ऽएकवि ᳪ शाद्द्वैराजं विश्श्वामित्रऽऋषिः प्रजापतिगृहीतया त्वया श्श्रोत्रं गृह्णामि प्प्रजाभ्यः॥

ॐ भूर्भुवः स्वः विश्वामित्र इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः विश्वमित्राय नमः॥

४५. कश्यप (अग्निकोण)

ॐ त्र्यायुषं ज्जमदग्नेः कश्यपस्य त्र्यायुषम् । यद्द्देवेषु त्र्यायुषं तन्नों ऽअस्तु त्र्यायुषम्॥

ॐ भूर्भुवः स्वः कश्यप इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः कश्यपाय नमः॥

४६. जमदग्नि (दक्षिण)

ॐ अयं पश्श्चाद्विश्श्वव्यचास्तस्य चक्षुर्व्वैश्श्वव्व्यचसं वर्षाश्श्चाक्षुष्ष्यो जगती व्वार्षी जगत्या ऽऋक्सममृक्समाच्छुक्क्रः शुक्क्रात्सप्तदशः सप्तदशाद् जमदग्ग्नर्ऋषिः प्रजापतिगृहीतया त्वया चक्षुर्गृह्णामि प्रजाब्भ्यः॥

ॐ भूर्भुवः स्वः जमदग्नि इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः जमदग्नये नमः॥

४७. वशिष्ठ (नैरृत्यकोण)

ॐ अयं पुरो भुवस्तस्य प्राणो भौवायनो व्वसन्तः प्प्राणाय नो गायत्त्री व्वासन्ती गायत्र्यै गायत्रं गायत्त्रादुपा ᳪ शुरुपा ᳪ शोस्त्रिवृत्रिवृतो रथन्तरं व्वसिष्ठ ऽऋषि प्प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाब्भ्यः॥

ॐ भूर्भुवः स्वः वशिष्ठ इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः वशिष्ठाय नमः॥

४८. अत्रि (पश्चिम)

ॐ अत्त्र पितरो मादयद्ध्वं य्यथाभाग मावृषायद्ध्वम् । अमीमदन्त पितरो यथाभाग मावृषायिषत॥

ॐ भूर्भुवः स्वः अत्रि इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः अत्रये नमः॥

४९. अरुन्धती (वायव्यकोण)

ॐ तं पत्नीभिरनुगच्छेम देवाः पुत्रैर्भ्रातृभिरुत वा हिरण्ण्यैः । नाकं गृब्भ्णानाः सुकृतस्य लोके तृतीये पृष्ठे ऽधिरोचने दिवः॥

ॐ भूर्भुवः स्वः अरुन्धति इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः अरुन्धत्यै नमः॥

५०. ऐन्द्री (कृष्णपरिधि पूर्व)

ॐ अदित्यै रास्स्नासीन्द्राण्ण्या ऽउष्ष्णीषः । पूषासि घर्म्माय दीष्ष्व॥

ॐ भूर्भुवः स्वः ऐन्द्रि इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः ऐन्द्रयै नमः॥

५१. कौमारी (अग्निकोण)

ॐ अम्बेऽअम्बकेऽम्बालिके न मा नयति कश्चन ॥ सस॑स्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम्॥

ॐ भूर्भुवः स्वः कौमारि इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः कौमार्यै नमः॥

५२. ब्राह्मी (दक्षिण)

ॐ इन्द्रायाहि धियेषितो व्विप्प्रजूतः सुतावतः उप ब्ब्रह्माणि व्वाग्घतः॥

ॐ भूर्भुवः स्वः ब्राह्मि इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः ब्राह्म्यै नमः॥

५३. वाराही (नैरृत्यकोण)

ॐ आयङ्गौः पृश्निरक्रमीदसदन्मातरं पुरः । पितरञ्च प्रयत्न्स्वः॥

ॐ भूर्भुवः स्वः वाराहि इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः वाराह्यै नमः॥

५४. चामुण्डा (पश्चिम)

ॐ अम्बेऽअम्बकेऽम्बालिके न मा नयति कश्चन ॥ सस॑स्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम्॥

ॐ भूर्भुवः स्वः चामुण्डे इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः चामुण्डायै नमः॥

५५. वैष्णवी (वायव्यकोण)

ॐ आप्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम्। भवा व्वाजस्य सङ्गथे॥

ॐ भूर्भुवः स्वः वैष्णवि इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः वैष्णव्यै नमः॥

५६. माहेश्वरी (उत्तर)

ॐ या ते रुद्द्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तन्न्वा शन्न्तमया गिरिशन्ताभि चाकशीहि॥

ॐ भूर्भुवः स्वः माहेश्वरि इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः माहेश्वर्यै नमः॥

५७. वैनायकी (ईशानकोण)

ॐ समख्ये देव्या धिया सन्दक्षिणयोरुचक्षसा । मा मऽआयुः प्प्रमोषीर्म्मो ऽअहं तव व्वीरं व्विदेय तव देवि सन्दृशि॥

ॐ भूर्भुवः स्वः वैनायकि इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः वैनायक्यै नमः॥

प्राणप्रतिष्ठा

ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तन्नोत्वरिष्टं यज्ञ ᳪ समिमं दधातु॥ विश्वेदेवा स इह मादयंतामों३ प्रतिष्ठ॥

प्रतिष्ठा सर्वदेवानां मित्रावरुणनिर्मिता । प्रतिष्ठां ते करोम्यत्र मण्डले दैवते सह ।।

ॐ ब्रह्माद्यारभ्य वैनायकी पर्यंत देवताः इहागच्छत सर्वतोभद्रोपरि तिष्ठत ।

षोडशोपचारैः पूजनम्

ॐ भूर्भुवः स्वः सर्वतोभद्रस्थ ब्रह्मादि देवताभ्यो नमः आसनार्थेऽक्षतान समर्पयामि । पादयोः पाद्यं समर्पयामि । हस्तयोः अर्घ्यं समर्पयामि । आचमनं समर्पयामि । पञ्चामृतस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि । स्नानाङ्गाचमनं समर्पयामि । वस्त्रम् समर्पयामि । आचमनं समर्पयामि । यज्ञोपवीतं समर्पयामि । आचमनं समर्पयामि । उपवस्त्रं समर्पयामि । गन्धं समर्पयामि । अक्षतान समर्पयामि । पुष्पमालां समर्पयामि । नानापरिमलद्रव्याणि समर्पयामि । धूपमाध्रापयामि । दीपं दर्शयामि । हस्तप्रक्षालनम् । नैवेद्यं समर्पयामि । आचमनीयं समर्पयामि । मध्ये पानीयम् उत्तरापोशनं च समर्पयामि । ताम्बूलं समर्पयामि । पूगीफलं समर्पयामि । कृतायाः पूजायाः पाड्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि । मन्त्रपुष्पाञ्जलिं समर्पयामि । अनया पूजया गणपत्यादि पञ्चदेवता: प्रीयन्ताम् न मम ।

पूजा की आवश्यक सामग्री / Puja Essentials

इन वस्तुओं का प्रयोग ऊपर वर्णित अनुष्ठान में परंपरागत रूप से किया जाता है।

बाँस रहित धूप कोन

पूजा और ध्यान के दौरान सुगंध के लिए सामान्य रूप से उपयोग किए जाने वाले धूप कोन।

View on Amazon

सुगंधित अगरबत्ती (विविध सुगंध)

पूजा के समय वातावरण को सुगंधित रखने के लिए उपयोग की जाने वाली अगरबत्ती।

View on Amazon

कपूर सुगंधित तिल का पूजा तेल

दीया जलाने के लिए पूजा में उपयोग किया जाने वाला कपूर सुगंधित तिल का तेल।

View on Amazon

कपूर की गोलियाँ (Camphor)

पूजा, हवन और आरती के दौरान कपूर जलाने के लिए उपयोग की जाने वाली कपूर की गोलियाँ।

View on Amazon

प्रसाद दाना (सकरिया)

पूजा और भोग के लिए प्रसाद रूप में अर्पित की जाने वाली सकरिया।

View on Amazon

सूती दीया बत्ती (Jyot Batti)

दीपक और दीया प्रज्वलन के लिए पूजा और आरती में उपयोग की जाने वाली सूती बत्ती।

View on Amazon

पीतल का अखंड ज्योति दीया

घी या तेल से दीपक प्रज्वलन के लिए पूजा और आरती में उपयोग किया जाने वाला पीतल का दीया।

View on Amazon

पंचमुखी रुद्राक्ष जप माला (108 मनके)

जप, ध्यान और पूजा के दौरान मंत्र जाप के लिए उपयोग की जाने वाली रुद्राक्ष माला।

View on Amazon

श्री सत्यनारायण स्वामी फोटो फ्रेम

घर या पूजा स्थल में दर्शन और पूजा के लिए उपयोग की जाने वाली श्री सत्यनारायण स्वामी की छवि।

View on Amazon

पूजा आसन

पूजा, जप और ध्यान के समय बैठने के लिए उपयोग किया जाने वाला आसन।

View on Amazon

पूजा घंटी (Ghanti)

पूजा और आरती के समय ध्वनि के माध्यम से ध्यान केंद्रित करने के लिए उपयोग की जाने वाली घंटी।

View on Amazon

इलेक्ट्रिक कपूर दानी (गणेश-ॐ डिजाइन)

पूजा, आरती एवं ध्यान के समय कपूर प्रज्वलन हेतु उपयोग की जाने वाली विद्युत कपूर दानी। यह सुगंध प्रसार के साथ नाइट लैंप के रूप में भी कार्य करती है तथा घर, मंदिर एवं पूजा कक्ष में सकारात्मक वातावरण बनाती है।

View on Amazon

सूती फूल बत्ती (हस्तनिर्मित)

दीपक एवं दीया प्रज्वलन हेतु उपयोग की जाने वाली हस्तनिर्मित सूती फूल बत्ती। यह पूजा, आरती, नवरात्रि एवं अन्य धार्मिक अनुष्ठानों में नियमित रूप से प्रयुक्त होती है तथा स्थिर व शुद्ध ज्योति प्रदान करती है।

View on Amazon

As an Amazon Associate, I earn from qualifying purchases.