॥ पुण्याहवाचन ॥
|| पुण्याहवाचन ||
वरुण प्रार्थना - ॐ पाशपाणे नमस्तुभ्यं पद्मिनीजीवनायक। पुण्याहवाचनं यावत् तावत् त्वं सुस्थिरो भव ॥
यजमान -
ॐ दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च। ॐ त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः। अतो धर्माणि धारयन् । तेन आयुष्यप्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु , इति भवन्तो ब्रुवन्तु ॥
ब्राह्मण
पुण्यं पुण्याहं दीर्घमायुरस्तु ॥
यजमान
जल ब्राह्मण के हाँथ मे देंते हुए कहें।
ॐ शिवा आपः सन्तु ॥
ब्राह्मण
सन्तु शिवा आपः ॥
यजमान
ॐ सौमनस्यमस्तु ॥
ब्राह्मण
अस्तु सौमनस्यम् ॥
यजमान
ॐ अक्षतं चारिष्टं चास्तु ॥
ब्राह्मण
अस्त्वक्षतमरिष्टं च।
यजमान
ॐ गन्धाःपान्तु ॥
ब्राह्मण
सौमङ्गल्यं चास्तु ॥
यजमान
ॐ अक्षताः पान्तु ॥
ब्राह्मण
आयुष्यमस्तु ॥
यजमान
ॐ पुष्पाणि पान्तु ॥
ब्राह्मण
सौश्रियमस्तु ॥
यजमान
ॐ सफलानि ताम्बूलानि पान्तु ॥
ब्राह्मण
ऐश्वर्यमस्तु ॥
यजमान
ॐ दक्षिणाः पान्तु ॥
ब्राह्मण
बहुधनञ्चास्तु ॥
यजमान
ॐ स्वर्चितमस्तु ॥
ब्राह्मण
अस्तु स्वर्चितम् ॥
यजमान
ब्राह्मण
यजमान
यं कृत्वा सर्ववेदयज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते, तमहमोङ्कारमादिं कृत्वा ऋग्यजुः सामाथर्वाशीर्वचनं बहुऋषिमतं समनुज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये ॥
ब्राह्मण
ॐ वाच्यताम्। ॐ द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत।नेष्ट्रादृतुभिरिष्यत ॥ सविता त्वा सवाना ᳪ सुवतामग्निर्गृहपतीना ᳪ सोमो वनस्पतीनाम्। बृहस्पतिर्वाच इन्द्रो ज्यैष्ठ्याय रुद्रः पशुभ्यो मित्रः सत्यो वरुणो धर्मपतीनाम् ॥ ॐ न तद्रक्षा ᳪ सि न पिशाचास्तरन्ति देवानामोजः प्रथमज ᳪ ह्येतत्। यो बिभर्ति दाक्षायण ᳪ हिरण्य ᳪ स देवेषु कृणुते दीर्घमायुः स मनुष्येषु कृणुते दीर्घमायुः॥ उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे।उग्र ᳪ शर्म महि श्रवः। उपास्मै गायता नरः पवमानायेन्दवे।अभि देवाँ देवाँ इयक्षते ॥
यजमान
ॐ व्रतजपनियमतपः स्वाध्याय क्रतु शम दम दया दान विशिष्टानां सर्वेषां भवतां ब्राह्मणानां मनः समाधीयताम् ॥
ब्राह्मण
ॐ समाहितमनसः स्मः ॥
यजमान
ॐ प्रसीदन्तु भवन्तः॥
ब्राह्मण
ॐ प्रसन्नाः स्मः॥
दाहिने पात्र में -
ॐ शान्तिरस्तु। ॐ पुष्टिरस्तु। ॐ तुष्टिरस्तु। ॐ वृद्धिरस्तु। ॐ अविघ्नमस्तु। ॐ आयुष्यमस्तु। ॐ आरोग्यमस्तु।ॐ शिवमस्तु। ॐ शिवं कर्मास्तु। ॐ कर्मसमृद्धिरस्तु। ॐ वेदसमृद्धिरस्तु ॥ ॐ शास्त्रसमृद्धिरस्तु ॥ ॐधनधान्यसमृद्धिरस्तु। ॐ पुत्रपौत्रसमृद्धिरस्तु। ॐ इष्टसम्पदस्तु॥
बायें पात्र में -
ॐ अरिष्टनिरसनमस्तु । ॐ यत्पापं रोगोऽशुभमकल्याणं तद् दूरे प्रतिहतमस्तु ॥
दाहिने पात्र में -
ॐ यच्छ्रेयस्तदस्तु। ॐ उत्तरे कर्मणि निर्विघ्नमस्तु। ॐ उत्तरोत्तरमहरहरभिवद्धिरस्तु। ॐ उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम्। ॐ तिथिकरणमुहूर्तनक्षत्रग्रहलग्नसम्पदस्तु।ॐ तिथिकरणे मुहूर्तनक्षत्रग्रहलग्नाधिदेवता प्रीयन्ताम्। ॐ तिथिकरणे सुमुहूर्ते सनक्षत्रे सग्रहे सलग्ने साधिदैवते प्रीयेताम्। ॐ दुर्गापाञ्चाल्यौ प्रीयेताम्। ॐ अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम्। ॐ इन्द्रपुरोगा मरुद्गणाःप्रीयन्ताम्। ॐवशिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम्। ॐ माहेश्वरीपुरोगा उमामातरः प्रीयन्ताम्। ॐ अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम्। ॐ ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम्। ॐ विष्णुपुरोगाः सर्वे देवाः प्रीयन्ताम्। ॐ ऋषयश्छन्दांस्याचार्या वेदा देवा यज्ञाश्च प्रीयन्ताम्। ॐ ब्रह्मा च ब्राह्मणाश्च प्रीयन्ताम्। ॐ अम्बिकासरस्वत्यौ प्रीयेताम्। ॐ श्रद्धामेधे प्रीयेताम्। ॐ भगवती कात्यायनी प्रीयताम्। ॐ भगवती माहेश्वरी प्रीयताम्। ॐ भगवती ऋद्धिकरी प्रीयताम्। ॐ भगवती वृद्धिकरी प्रीयताम्। ॐ भगवती पुष्टिकरी प्रीयताम्। ॐ भगवती तुष्टिकरी प्रीयेताम्। ॐ भगवन्तौ विघ्नविनायकौ प्रीयेताम्। ॐ सर्वाः कुलदेवताः प्रीयन्ताम्। ॐ सर्वाः ग्रामदेवताः प्रीयन्ताम्। ॐ सर्वा इष्टदेवताः प्रीयन्ताम् ॥
पुनः बायें पात्र में-
ॐ हताश्च ब्रह्मद्विषः। ॐ हताश्च परिपन्थिनः। ॐ हताश्च विघ्नकर्तारः। ॐ शत्रवः पराभवं यान्तु। ॐ शाम्यन्तु घोराणि। ॐ शाम्यन्तु पापानि। ॐ शाम्यन्तु ईतयः। ॐशाम्यन्तूपद्रवाः ॥
पुनः दाहिने पात्र में -
ॐ शुभानि वर्धन्ताम्। ॐ शिवा आपःसन्तु। ॐ शिवा ऋतवः सन्तु। ॐ शिवा ओषधयः सन्तु। ॐ शिवा वनस्पतयः सन्तु। ॐ शिवा अतिथयः सन्तु। ॐ शिवा अग्नयः सन्तु। ॐ शिवा आहुतयः सन्तु। ॐ अहोरात्रे शिवे स्याताम् ॥ ॐ निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां योगक्षेमो नः कल्पताम् ॥ ॐ शुक्राङ्गारक बुध बृहस्पति शनैश्चर राहु केतु सोम सहिता आदित्यपुरोगाः सर्वे ग्रहाः प्रीयन्ताम् ॥ ॐ भगवान् नारायणः प्रीयताम्। ॐ भगवान् पर्जन्यः प्रीयताम्। ॐ भगवान् स्वामी महासेनः प्रीयताम्। ॐ पुरोऽनुवाक्यया यत्पुण्यं तदस्तु। ॐ याज्यया यत्पुण्यं तदस्तु। ॐ वषट्कारेण यत्पुण्यं तदस्तु। ॐ प्रातः सूर्योदये यत्पुण्यं तदस्तु ॥
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः। पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा ॐ पुण्याहकालान् वाचयिष्ये॥
यजमान
ब्राह्मण
ॐ वाच्यताम्॥
यजमान
ॐ ब्राह्मं पुण्यमहद्यच्च सृष्ट्युत्पादनकारकम्।वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः॥ भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे क्रियमाणस्य ….(कर्म का नाम) कर्मणः पुण्याहं भवन्तो ब्रुवन्तु ॥
ब्राह्मण
ॐ पुण्याहम् ॥ (भो ब्राह्मणाः से २ बार और । कुल ३ बार )
ब्राह्मण
ॐ पुनन्तु मा देवजनाः पुनन्तु मनसा धियः। पुनन्तु विश्वा भूतानि जातवेदः पुनीहि मा॥
यजमान
ॐ पृथिव्यामुद्धृतायां तु यत्कल्याणं पुरा कृतम्। ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः ॥ भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे क्रियमाणस्य .. (कर्म का नाम) कर्मणः पुण्याहं भवन्तो ब्रुवन्तु ॥
ब्राह्मण
ॐ कल्याणम् ॥ (भो ब्राह्मणाः से २ बार और । कुल ३ बार )
ब्राह्मण
ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः। ब्रह्मराजन्या ᳪ शूद्राय चार्याय च स्वाय चारणाय च। प्रियो देवानां दक्षिणायै दातुरिह भूयासमयं मे कामः समृद्ध्यतामुपमादो नमतु ॥
यजमान
ॐ सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृता।सम्पूर्णा सुप्रभावा च तामृद्धिं प्रब्रुवन्तु नः ॥ भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे क्रियमाणस्य .. (कर्म का नाम) कर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ॥
ब्राह्मण
ॐ ऋद्ध्यताम्॥ (भो ब्राह्मणाः से २ बार और । कुल ३ बार )
ब्राह्मण
ॐ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम । दिवं पृथिव्याऽअध्याऽरुहामाविदाम देवान् स्वर्ज्योतिः ॥
यजमान –
ॐ स्वस्तिर्याऽविनाशाख्या पुण्यकल्याणवृद्धिदा।विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः ॥ भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे क्रियमाणस्य ….(कर्म का नाम) कर्मणः स्वस्ति भवन्तो ब्रुवन्तु ॥
ब्राह्मण
ॐ आयुष्मते स्वस्ति ॥ (भो ब्राह्मणाः से २ बार और । कुल ३ बार )
ब्राह्मण
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः। स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
यजमान
ॐ समुद्रमथनाज्जाता जगदानन्दकारिका । हरिप्रिया च माङ्गल्या तां श्रियं च ब्रुवन्तु नः ॥ भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे क्रियमाणस्य …..(कर्म का नाम) कर्मणः श्रीरस्तु इति भवन्तो ब्रुवन्तु ॥
ब्राह्मण
ॐ अस्तु श्रीः ॥ (भो ब्राह्मणाः से २ बार और । कुल ३ बार )
ब्राह्मण
ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रुपमश्विनौ व्यात्तम्। इष्णन्निषाणामुम ऽइषाण सर्वलोकम्म ऽइषाण।।
यजमान
ॐ मृकण्डुसूनोरायुर्यद् ध्रुवलोमशयोस्तथा। आयुषा तेन संयुक्ता जीवेम शरदः शतम् ॥
ब्राह्मण
ॐ शतं जीवन्तु भवन्तः ॥ ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्।पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः।।
यजमान
ॐ शिवगौरीविवाहे या या श्रीरामे नृपात्मजे।धनदस्य गृहे या श्रीरस्माकं सास्तु सद्मनि ॥
ब्राह्मण
ॐ अस्तु श्रीः। ॐ मनसः कामनाकूतिं वाचः सत्यमशीय। पशूनाᳪरुपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥
यजमान
प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट्। भगवाञ्छाश्वतो नित्यं स नो रक्षतु सर्वतः ॥
ब्राह्मण
ॐ भगवान् प्रजापतिः प्रीयताम्। ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रुपाणि परि ता बभूव। यत्कामास्ते जुहुमस्तन्नो अस्तुवय ᳪ स्याम पतयो रयीणाम् ॥
यजमान
आयुष्मते स्वस्तिमते यजमानाय दाशुषे। कृताः सर्वाशिषः सन्तु ऋत्विग्भिर्वेदपारगैः॥ देवेन्द्रस्य यथा स्वस्तिस्तथा स्वस्तिर्गुरोर्गृहे। एकलिंगे यथा स्वस्तिस्तथा स्वस्तिः सदा मम ॥
ब्राह्मण
ॐ आयुष्मते स्वस्ति ॥ ॐ प्रति पन्थामपद्महि स्वस्तिगामनेहसम्। येन विश्वा परिद्विषो वृणक्ति विन्दते वसु ॥ॐ पुण्याहवाचनसमृद्धिरस्तु ॥
यजमान
अस्मिन पुण्याहवाचने न्यूनातिरिक्तोयो विधिरुपविष्टब्राह्मणानां वचनात् श्री महागणपतिप्रसादाच्च परिपूर्णोऽस्तु ॥
ब्राह्मण
यजमान
(तिल, जल, दक्षिणा लेकर पढे)
ॐ अद्य कृतैतत् अस्मिन् पुण्याहवाचनकर्मणः साङ्गता सिद्ध्यर्थं तत्पूर्णफलप्राप्त्यर्थं च पुण्याहवाचकेभ्यो ब्राह्मणेभ्यो इमां दक्षिणां विभज्य अहं दास्ये ॥
पूजा की आवश्यक सामग्री / Puja Essentials
इन वस्तुओं का प्रयोग ऊपर वर्णित अनुष्ठान में परंपरागत रूप से किया जाता है।
As an Amazon Associate, I earn from qualifying purchases.