चतुर्लिंगतो भद्र पूजन

१. असिताङ्गभैरव

ॐ नमः कृत्स्नायतया धावते सत्त्वनाम्पतये नमोनमः सहमानायनिव्व्याधिनऽ आव्व्याधिनीनाम्पतये नमोनमो निषङ्गिणे ककुभायस्तेनानाम्पतये नमोनमो निचेरवे परिचरायारण्ण्यानाम्पतये नमोनमो वञ्चते ॥

ॐ भूर्भुवः स्वः असिताङ्गभैरव इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः असिताङ्गभैरवाय नमः ॥१॥

२. रुरुभैरव

ॐ श्वित्त्र ऽआदित्यानामुष्ट्रो घृणीवान् वार्घीनसस्ते मत्या ऽअरण्याय सृमरो रुरू रौद्रः क्वयिः कुटरुर्द्दात्यौहस्ते वाजिनां कामाय पिकः ॥

ॐ भूर्भुवः स्वः रुरुभैरव इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः रुरुभैरवाय नमः ॥२॥

३. चण्डभैरव

ॐ उग्ग्रं लोहितेन मित्र ᳪ सौव्व्रत्येन रुद्रं दौर्व्व्रत्येनेन्द्रं प्रक्रीडेन मरुतो बलेन साद्ध्यान् प्प्रमुदा॥ भवस्य कष्ठयᳪ रुद्रस्यान्तः पार्श्वं महादेवस्य यकृच्छर्व्वस्य व्वनिष्ठुः पशुपतेः पुरीतत् ॥

ॐ भूर्भुवः स्वः चण्डभैरव इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः चण्डभैरवाय नमः ॥३॥

४. क्रोधभैरव

ॐ इन्द्रस्य क्रडोऽदित्यै पाजस्यन्दिशाञ्जत्रवोऽदित्यै भसज्जीमूता हृदयौपशेनान्तरिक्ष पुरीतता नभ ऽउदर्येण चक्रवाकौ मतस्न्नाब्भ्यान्दिवं वृक्काभ्याङ्गिरीन्प्लाशिभिरुपलान्प्लीन्हा वल्मीकान् ल्कोमभिर्ग्लौर्गुल्मान् हिराभिः स्रवन्तीर्ह्रदान् कुक्षिब्भ्या ᳪ समुद्रमुदरेण व्वैश्श्वानरं भस्म्मना ॥

ॐ भूर्भुवः स्वः क्रोधभैरव इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः क्रोधभैरवाय नमः ॥४॥

५. उन्मत्तभैरव

ॐ उन्नत ऽऋषमो वामनस्त ऽऐन्द्राव्वैष्ष्णवा ऽउन्नतः शितिबाहुः शितिपृष्ष्ठ्ठास्त ऽऐन्द्राबार्हस्पत्याः शुकरूपा व्वाजिनाः कल्माषा ऽआग्निमारुताः श्यामाः पौष्ष्णाः ।।

ॐ भूर्भुवः स्वः उन्मत्तभैरव इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः उन्मत्तभैरवाय नमः ॥५॥

६. कपालभैरव

ॐ कार्षिरसि समुद्रस्य त्वाक्षित्याऽउन्नयामि।समापोऽअद्भिरग्मत समोषधीभिरोषधीः॥

ॐ भूर्भुवः स्वः कपालभैरव इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः कपालभैरवाय नमः॥६॥

७. भीषणभैरव

ॐ उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च । सासह्वाँश्चाभियुग्वा च विक्षिपः स्वाहा ॥

ॐ भूर्भुवः स्वः भीषणभैरव इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः भीषणभैरवाय नमः ॥७॥

८. संहारभैरव

ॐ नमः शम्भवाय च मयेभवाय च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

ॐ भूर्भुवः स्वः संहारभैरव इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः संहारभैरवाय नमः ॥८॥

९. भव

ॐ नमः श्वब्भ्यः श्वपतिब्भ्यश्च वो नमोनमो भवाय च रुद्राय च नमः शर्व्वाय च पशुपतये च नमो नीलग्ग्रीवाय च शितिकण्ठाय च नमः कपर्द्दिने ॥

ॐ भूर्भुवः स्वः भव इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः भवाय नमः ॥९॥

१०. सर्व

ॐ अग्निᳪ हृदयेनाशनि ᳪ हृदयाग्रेण पशुपतिं कृत्स्नहृदयेन भवं यक्ना । शर्वं- मतस्नाभ्यामीशानं मन्युना महादेवमन्तः पर्शव्येनोग्रं देवं वनिष्ठुना वसिष्ठहनुः शिङ्गीनि कोश्याभ्याम्॥

ॐ भूर्भुवः स्वः सर्व इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः सर्वाय नमः ॥१०॥

११. पशुपति

ॐ उग्ग्रं लोहितेन मित्र ᳪ सौव्व्रत्येन रुद्रं दौर्व्व्रत्येनेन्द्रं प्रक्रीडेन मरुतो बलेन साद्ध्यान् प्प्रमुदा॥ भवस्य कष्ठयᳪ रुद्रस्यान्तः पार्श्वं महादेवस्य यकृच्छर्व्वस्य व्वनिष्ठुः पशुपतेः पुरीतत् ॥

ॐ भूर्भुवः स्वः पशुपति इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः पशुपतये नमः ॥११॥

१२. ईशान

ॐ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम्। पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये॥

ॐ भूर्भुवः स्वः ईशान इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः ईशानाय नमः ॥१२॥

१३. रुद्र

ॐ नमस्ते रुद्र मन्यव ऽउतो त ऽइषवे नमः॥ बाहुब्भ्यामुत ते नमः॥

ॐ भूर्भुवः स्वः रुद्र इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः रुद्राय नमः ॥१३॥

१४. उग्ग्र

ॐ उग्रश्च भीमश्च ध्वान्तश्च धुनिश्च । सासह्वाँश्चाभियुग्वा च विक्षिपः स्वाहा ॥

ॐ भूर्भुवः स्वः उग्ग्र इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः उग्ग्राय नमः ॥१४॥

१५. भीम

ॐ वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यते यनाय ॥

ॐ भूर्भुवः स्वः भीम इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः भीमाय नमः ॥१५॥

१६. महान्त

ॐ मानोमहान्तमुतमानोऽअर्ब्भकम्मानऽउक्षन्तमुतमानऽउक्षितम् । मानोव्वधीः पितरम्मोतमातरम्मानः प्प्रियास्तन्न्वो रुद्द्ररीरिषः॥

ॐ भूर्भुवः स्वः महान्त इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः महान्ते नमः ॥१६॥

१७. अनन्त

ॐ स्योना पृथिवि नो भवानृक्षरानिवेशनी यच्छा नः शर्मसप्रथाः ॥

ॐ भूर्भुवः स्वः अनन्त इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः अनन्ताय नमः ॥१७॥

१८. वासुकि

ॐ देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारश्च हरासि मे निहारं निहराणि ते स्वाहा ॥

ॐ भूर्भुवः स्वः वासुकि इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः वासुकये नमः ॥१८॥

१९. तक्षक

ॐ नमस्तक्षब्भ्यो रथकारेब्भ्यश्च वो नमोनमः कुलालेब्भ्यः कर्म्मारेब्भ्यश्च वो नमोनमो निषादेब्भ्यः पुञ्जिष्ट्ठेब्भ्यश्च वो नमोनमः श्वनिब्भ्योमृगयुब्भ्यश्च वो नमोनमः श्वब्भ्यः॥

ॐ भूर्भुवः स्वः तक्षक इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः तक्षकाय नमः ॥१९॥

२०. कुलिश

ॐ पुरुषमृगश्चन्द्रमसो गोधा कालका दार्वाघाटस्ते व्वनस्प्पतीनां कृकवाकुः सावित्त्रो ह ᳪ सो व्वातस्य नाक्क्रो मकरः कुलीपयस्तेऽकूपारस्य ह्वियै शल्ल्यकः ॥

ॐ भूर्भुवः स्वः कुलिश इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः कुलिशाय नमः ॥२०॥

२१. कर्कोटक

ॐ सोमाय कुलुङ्ग ऽआरण्योऽजो नकुलः शका ते पौष्ष्णाः क्रोष्ट्टा मायोरिन्द्रस्य गौरमृगः पिद्वो न्यङ्कुः कक्कटस्तेऽनुमस्यै प्प्रतिश्रुत्कायै चक्रवाकः ॥

ॐ भूर्भुवः स्वः कर्कोटक इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः कर्कोटकाय नमः ॥२१॥

२२. शङ्खपाल

ॐ अग्निर्ऋषिः पवमानः पाञ्चजन्न्यः पुरोहितः ॥ तमीमहे महागयम् ।। उपयामगृहीतोऽस्यग्ग्ग्नये त्वा व्वर्चस ऽएष ते योनिरग्ग्ग्नये त्त्वा व्वर्चसे ॥

ॐ भूर्भुवः स्वः शङ्खपाल इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः शङ्खपालाय नमः ॥२२॥

२३. कम्बल

ॐ सीसेन तन्त्रं मनसा मनीषिण ऽऊर्ष्णासूत्त्रेण कवयो व्वयन्ति ॥ अश्विना यज्ञ ᳪ सविता सरस्वतीन्द्रस्य रूपं व्वरुणो भिषज्यन् ॥

ॐ भूर्भुवः स्वः कम्बल इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः कम्बलाय नमः ॥२३॥

२४. अश्वतर

ॐ अश्वस्तूपरो गोमृगस्ते प्र्प्राजापत्याः कृष्णग्ग्रीव ऽआग्ग्नेयो रराटे पुरस्तात्सारस्वती मेष्यधस्ताद्धन्वीराश्श्विनावधोरामौ बाह्वोः सौमापौष्णः श्यामो नाब्भ्या ᳪ सौर्य्ययामौ श्श्वेतश्च्च कृष्णश्च्च पार्श्वयोस्त्वाष्ट्रौ लौमशसक्थौ सक्थ्यीर्वायव्यः श्वेतः पुच्छ ऽइन्द्राय स्वपस्याय व्वेहद्वैष्ष्णवो व्वामनः ॥

ॐ भूर्भुवः स्वः अश्वतर इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः अश्वतराय नमः ॥२४॥

२५. शूल

ॐ नमः श्वब्भ्यः श्वपतिब्भ्यश्च वो नमोनमो भवाय च रुद्राय च नमः शर्व्वाच पशुपतये च नमो नीलग्ग्रीवाय च शितिकण्ठाय च नमः कपर्द्दिने ॥

ॐ भूर्भुवः स्वः शूल इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः शूलाय नमः ॥२५॥

२६. चन्द्रमौलि

ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥

ॐ भूर्भुवः स्वः चन्द्रमौलि इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः चन्द्रमौलिने नमः ॥२६॥

२७. चन्द्रमा

ॐ चुन्द्रमा ऽअप्स्वन्तरा सुपर्णो द्यावते दिवि । रयिं पिशङ्ग बहुलं पुरुस्पृह ᳪ हरि रेति कनिक्क्रदत् ॥

ॐ भूर्भुवः स्वः चन्द्रमा इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः चन्द्रमसे नमः ॥२७॥

२८. वृषभध्वज

ॐ आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । संक्रन्दनोऽनिमिष ऽएकवीरः शत ᳪ सेना अजयत्साकमिन्द्रः॥

ॐ भूर्भुवः स्वः वृषभध्वज इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः वृषभध्वजाय नमः ॥२८॥

२९. त्रिलोचन

ॐ सुगा वौ देवा सदना ऽअकर्म्म य ऽओजग्मेद ᳪ सवनं जुषाणाः ॥ भरमाणा व्वहमाना हवी ᳪ ष्ष्यस्म्मे धत्त व्वसवो व्वसूनि स्वाहा ॥

ॐ भूर्भुवः स्वः त्रिलोचन इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः त्रिलोचनाय नमः ॥२९॥

३०. शक्तिधर

ॐ रुद्राः स ᳪ सृज्ज्य पृथिवी बृहज्ज्योतिः समीधिरं ॥ तेषां भानुरजस्रᳪ च्छुक्को देवेषु रोचते ॥

ॐ भूर्भुवः स्वः शक्तिधर इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः शक्तिधराय नमः ॥३०॥

३१. महेश्वर

ॐ त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्द्धनम्। उर्वारुकमिव बन्धनादितो मुक्षीय मामुतः ॥

ॐ भूर्भुवः स्वः महेश्वर इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः महेश्वराय नमः ॥३१॥

३२. शूलपाणि

ॐ यावांकशामधुमत्यश्विना सूनृतावती तया यज्ञम्मिमिक्षताम् ॥

ॐ भूर्भुवः स्वः शूलपाणि इहागच्छ इह तिष्ठ । ॐ भूर्भुवः स्वः शूलपाणये नमः ॥३२॥

षोडशोपचारैः पूजनम्

आसनार्थेऽक्षतान समर्पयामि । पादयोः पाद्यं समर्पयामि । हस्तयोः अर्घ्यं समर्पयामि । आचमनं समर्पयामि । पञ्चामृतस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि । स्नानाङ्गाचमनं समर्पयामि । वस्त्रम् समर्पयामि । आचमनं समर्पयामि । यज्ञोपवीतं समर्पयामि । आचमनं समर्पयामि । उपवस्त्रं समर्पयामि । गन्धं समर्पयामि । अक्षतान समर्पयामि । पुष्पमालां समर्पयामि । नानापरिमलद्रव्याणि समर्पयामि । धूपमाध्रापयामि । दीपं दर्शयामि । हस्तप्रक्षालनम् । नैवेद्यं समर्पयामि । आचमनीयं समर्पयामि । मध्ये पानीयम् उत्तरापोशनं च समर्पयामि । ताम्बूलं समर्पयामि । पूगीफलं समर्पयामि । कृतायाः पूजायाः पाड्गुण्यार्थे द्रव्यदक्षिणां समर्पयामि । मन्त्रपुष्पाञ्जलिं समर्पयामि । अनया पूजया गणपत्यादि पञ्चदेवता: प्रीयन्ताम् न मम ।

पूजा की आवश्यक सामग्री / Puja Essentials

इन वस्तुओं का प्रयोग ऊपर वर्णित अनुष्ठान में परंपरागत रूप से किया जाता है।

बाँस रहित धूप कोन

पूजा और ध्यान के दौरान सुगंध के लिए सामान्य रूप से उपयोग किए जाने वाले धूप कोन।

View on Amazon

सुगंधित अगरबत्ती (विविध सुगंध)

पूजा के समय वातावरण को सुगंधित रखने के लिए उपयोग की जाने वाली अगरबत्ती।

View on Amazon

कपूर सुगंधित तिल का पूजा तेल

दीया जलाने के लिए पूजा में उपयोग किया जाने वाला कपूर सुगंधित तिल का तेल।

View on Amazon

कपूर की गोलियाँ (Camphor)

पूजा, हवन और आरती के दौरान कपूर जलाने के लिए उपयोग की जाने वाली कपूर की गोलियाँ।

View on Amazon

प्रसाद दाना (सकरिया)

पूजा और भोग के लिए प्रसाद रूप में अर्पित की जाने वाली सकरिया।

View on Amazon

सूती दीया बत्ती (Jyot Batti)

दीपक और दीया प्रज्वलन के लिए पूजा और आरती में उपयोग की जाने वाली सूती बत्ती।

View on Amazon

पीतल का अखंड ज्योति दीया

घी या तेल से दीपक प्रज्वलन के लिए पूजा और आरती में उपयोग किया जाने वाला पीतल का दीया।

View on Amazon

पंचमुखी रुद्राक्ष जप माला (108 मनके)

जप, ध्यान और पूजा के दौरान मंत्र जाप के लिए उपयोग की जाने वाली रुद्राक्ष माला।

View on Amazon

श्री सत्यनारायण स्वामी फोटो फ्रेम

घर या पूजा स्थल में दर्शन और पूजा के लिए उपयोग की जाने वाली श्री सत्यनारायण स्वामी की छवि।

View on Amazon

पूजा आसन

पूजा, जप और ध्यान के समय बैठने के लिए उपयोग किया जाने वाला आसन।

View on Amazon

पूजा घंटी (Ghanti)

पूजा और आरती के समय ध्वनि के माध्यम से ध्यान केंद्रित करने के लिए उपयोग की जाने वाली घंटी।

View on Amazon

इलेक्ट्रिक कपूर दानी (गणेश-ॐ डिजाइन)

पूजा, आरती एवं ध्यान के समय कपूर प्रज्वलन हेतु उपयोग की जाने वाली विद्युत कपूर दानी। यह सुगंध प्रसार के साथ नाइट लैंप के रूप में भी कार्य करती है तथा घर, मंदिर एवं पूजा कक्ष में सकारात्मक वातावरण बनाती है।

View on Amazon

सूती फूल बत्ती (हस्तनिर्मित)

दीपक एवं दीया प्रज्वलन हेतु उपयोग की जाने वाली हस्तनिर्मित सूती फूल बत्ती। यह पूजा, आरती, नवरात्रि एवं अन्य धार्मिक अनुष्ठानों में नियमित रूप से प्रयुक्त होती है तथा स्थिर व शुद्ध ज्योति प्रदान करती है।

View on Amazon

As an Amazon Associate, I earn from qualifying purchases.